|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.26. अध्यायः 026
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरादिभिः शतयूपाश्रमे धृतराष्ट्रादीनुपेत्य स्वस्वनामकीर्तनपूर्वकं तत्पादाभिवादनम्॥ 1 ॥ धृतराष्ट्रेण स्वावा स्यादर्शनेन शोचतां तेषां समाश्वासनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्ते पाण्डवा दूरादवतीर्य पदातयः।
अभिजग्मुर्नरपतेराश्रमं विनयानताः॥ 16-26-1(97846)
स च योधजनः सर्वो ये च राष्ट्रनिवासिनः।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा॥ 16-26-2(97847)
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्॥ 16-26-3(97848)
ततस्तत्र समाजग्मुस्तापसा नियतव्रताः।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः॥ 16-26-4(97849)
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः॥ 16-26-5(97850)
ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम्।
पुष्पाणामुदकुंभस्य चार्थे गत इति प्रभो॥ 16-26-6(97851)
तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः॥ 16-26-7(97852)
ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा॥ 16-26-8(97853)
सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन्।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम्॥ 16-26-9(97854)
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम्।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम्॥ 16-26-10(97855)
अनन्तरं च राजानं भीमसेनमथार्जुनम्।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे॥ 16-26-11(97856)
सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः।
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि।
`तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः॥' 16-26-12(97857)
राजा तान्स्वरयोगेन स्पर्शेन च महामनाः।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः॥ 16-26-13(97858)
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्।
उपतस्थुर्महात्मानो मातरं च यथाविधि॥ 16-26-14(97859)
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः॥ 16-26-15(97860)
तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम्॥ 16-26-16(97861)
निवेदयामास तदा जनं तन्नामगोत्रतः।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत्॥ 16-26-17(97862)
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः।
राजाऽऽत्मानं गृहगतं पुरेवि गजसाह्वये॥ 16-26-18(97863)
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत॥ 16-26-19(97864)
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम्।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव॥ ॥ 16-26-20(97865)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षड्विंशोऽध्यायः॥ 26 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|